________________
वाऽऽमादेशो भवति । एते च परस्परादयः स्वभावादेकत्वस्ववृत्तयः कर्मव्यंतिहारविषयाः । अन्योऽन्यमेकक्रियाकरणं कर्मन्यति हारः । इमे सख्यो कुले वा परस्परां परस्परं वा भोजयतः । हमे सख्यौ कुले वाऽन्योऽन्यमन्योऽन्यां वा भोजयतः।आमिः सीमिः इतरेतरां वा इतरेतरेण भोज्यते इत्यादि। .. ... अथालुप्समासः.. असत्त्वे उसेः । ३।२।१०। ।
असत्त्वे विहितो यो ङसिस्तस्योत्तरपदे परे लुब् न भवति । स्तोकान्मुक्तः । कृच्छ्रान्मुक्तः । .
ओजोऽसहोऽम्भस्तमस्तपसष्टः । ३।२। १२ ।
एभ्यः परस्य तृतीयैकवचनस्य टाप्रत्ययस्य लुब् न भवति । ओजसाकृतम् । अञ्जसाकृतम् । सहसाकृतम् । अम्भसाकृतम् । तमसाकृतम् । तपसाकृतम् । 'पुंसोऽनुजे, जनुषोधे, आत्मनश्य पूरणप्रत्ययान्ते उत्तरपदे टाप्रत्ययस्य लुग् न वाच्यः' । पुंसाऽनुजः । जनुषाऽन्धः । आत्मनाद्वितीयः ।
परात्मभ्यां ङः ।३।२ । १७ । आभ्यां परस्य चतुर्येकवचनस्योत्तरपदे परे सम्झायां लुन् न भवति । परस्मैपदम् । आत्मनेपदम् ।
तत्पुरुषे कृति । ३ । २ । २० ।