SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ . (१४५) अथ बहुव्रीहिसमासप्रकरणम् । एकार्थे चानेकं च । ३ । १ । २२ । एकः समानोऽर्थोऽधिकरणं यस्य तदेकार्थं समानाधिकरणमिति यावद् । एकमनेकं चैकार्थी नामाव्ययं च नाम्ना सह समस्तं भवति द्वितीयाद्यन्तस्यान्यपदस्यार्थे वाच्ये सति स च समासो बहुत्रीहिसको भवति । प्राप्तमुदकं यमसौ प्राप्तोदको ग्रामः, ऊढो रथो येन स ऊढरथोऽनड्वान्, उपहृतो बलिर्यस्मै स उपहृतबलिर्यक्ष:, उद्धृत ओदनो यस्याः सा उद्धृतौदना स्थालि, श्रीसः पुरुषा यस्मिन् स वीरपुरुषो रणः, चित्रा गावो यस्य स चित्रदेवदत्तः । अनेकं शोभना सूक्ष्मा जटा केशा यस्यासौ सुसूक्ष्मजटकेशः, सुलभमजिनं वासो यस्मिन् तत् सुलभाजिनवासः क्षेत्रम् | अव्ययम्- उच्चैर्मुखं यस्य स उच्चैर्मुखः, एवं नीचैर्मुखः, कर्तुकामः, अन्तरङ्गम् । व्यधिकरणत्वेनाव्ययस्य प्राप्त्यभावाद् चपदेन तदनुकर्षणम् । बहुव्रीहिर्द्विविधः - तद् गुणसंविज्ञानोऽतद्गुणसंविज्ञानश्च । प्रधानस्यैकदेशो विशेषणतया यत्र ज्ञायते स तद्गुणसंविज्ञानो यथा लम्बकर्णश्चैत्रः; यत्र न ज्ञायते सोऽतद् गुणसंविज्ञानो यथा पीत-समुद्रः । 'उष्ट्रमुखादयो बहुव्रीहिसमासान्ता निपातनाद वेदितव्याः " उष्ट्रस्य मुखभित्र मुखं यस्य स उष्ट्रमुखः, अत्र व्यधिकरणसमासो मुखशब्दस्येवशब्दस्य च लोपश्च निपातनात् विधेयः । एवं 10
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy