________________
(१४१)
कृत्प्रत्ययविधायके सूत्रे उसिना पञ्चम्यन्तेन नाम्ना यदुक्तं तद् स्युक्तम् । ङस्युक्तं नाम कृत्प्रत्ययान्तेन नाम्ना सह नित्यं समस्यते, स च समासस्तत्पुरुषसञो भवति । कुम्भं करोतिकुम्भकारः । शरलावः । 'तृतीयोक्तं तु वा समस्यते' मूलकोपदंश मुक्ते, मूलकेनोपदशं भुङ्क्ते वा । प्रादयो गत्याद्यर्थे प्रथमान्तेन, अत्यादयः क्रान्ताद्यर्था द्वितीयान्तेन, अवादयः क्रुष्टाद्यर्थे तृतीयान्तेन, पर्यादयो ग्लानाद्यर्थे चतुर्थ्यन्तेन, निरादयः क्रान्ताद्यर्थे पञ्चम्यन्तेन समस्यते, स च समासस्तत्पुरुषः। प्रगत आचार्यः-प्राचार्यः। खट्वामतिक्रान्तः-अतिखट्वः । कोकिलया अवक्रुष्टः-अवकोकिलः। अध्ययनाय परिग्लान:-पर्यध्ययनः । कौशाम्ब्या निष्क्रान्तःनिष्कौशाम्बिः । सङ्ख्या समाहारे च द्विगुश्चानाम्न्ययम् । ३ । १ । ९९ । . अनेकस्य कथन्चिदेकत्वं समाहारः । सल्यावाचि नाम परेणं नाम्ना सह समस्यते, सञ्जाविषये तद्धितविषये उत्तरपदे च परे समाहारेऽभिधेये च, स च तत्पुरुषः कर्मधारयश्च स्याद्; अयमेव समासोऽसञ्ज्ञायां द्विगुश्च स्यात् । सञ्जाविषये- पञ्च च ते ग्रामाश्च-पञ्चग्रामाः, सप्तर्षयः । तद्धितविषये-द्वयोर्मात्रोरपत्यं पुमान् द्वैमातुरः, पन्चनापितिः । उत्तरपदे- पञ्च गावो धनमस्य पञ्चगवधनः, दशग्रामधनः। समाहारे-पञ्चानां पूलानां समाहारःपञ्चपूली, पन्चफली । समाहारे चेति किम् , अष्टौ प्रवचनमातरः।