________________
(१३७)
कृति । ३ । १ । ७७। ‘कर्मणि कृतः । ' कर्तरि । एतत्सूत्रद्वयेन कृत्प्रत्ययनिमित्ता या षष्ठी उका तदन्तं नाम नाम्ना सह समस्यते । सिद्धसेनस्य कृतिः-सिद्धसेनकृतिः। गणधराणामुक्तिः-गणधरोक्तिः । इध्मवृश्चनः । पलाशशातनः । - सप्तमी शौण्डायैः । ३।१।८८ ।
सप्तम्यन्तं नाम शौण्डादिभिर्नामभिः सह समस्यते, सच तत्पुरुषसज्ञः स्यात् । अक्षेषु शौण्ड:-अक्षशौण्डः, इह शौण्डशब्दो व्यसने वर्तते । अंक्षधूर्तः । अक्षकितवः । वृत्तौ प्रसक्तिक्रियाया अन्तर्भावाद् अक्षादिष्वधिकरणे सप्तमी। बहुवचनमाकृतिगणार्थम् । 'काकाद्यानां क्षेपे गम्यमाने समासो वाच्यः' तीर्थ काक इव-तीर्थकाकः इत्यादि । 'पात्रेसमितादयो निपातनात् साधवः' पात्रे एव समिता न तु कायें इति पात्रेसमिताः, पात्रेबहुलाः, गेहेशूर इत्यादयः। अनावाहितः-आहिताग्निरित्यादौ पूर्वप्रयोगः क्वचिद् द्रष्टव्यः ।
नञ् । ३ । १। ५१। नमिति नाम नाम्ना सह समस्यते, स च समासस्तत्पुरुषः स्यात् । नञ् द्विविधः, यदुक्तम्
उभौ नौ समाख्यातौ पर्युदासप्रसज्यको । पर्युदासः सद्गग्राही प्रसज्यस्तु निषेधकृत् ॥ १ ॥