SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ (१२३) ... एभिर्योगे गौणाद् नाम्नश्चतुर्थी स्यात् । शक्तो जिनदत्तः शिवदत्ताय । वषड् इन्द्राय । नमो जिनेन्द्राय । स्वस्तिशब्दः क्षेमार्थः स्वस्ति श्रीविजयधर्मसुरये, आशिष्यपि स्वस्ति सङ्घाय भूयाद् । अग्नये स्वाहा । पितृभ्यः स्वधा । रुचिक्लृप्यर्थधारिभिः प्रेयविकारोत्तमणेषु । २ । २।५५ । रुच्यर्थकैः क्लृप्यर्थकैर्धारिणा च योगे यथासङ्ख्यं प्रेये विकारे उत्तमणे चार्थे वर्तमानाद् गौणाद् नाम्नश्चतुर्थी स्यात् । देवदत्ताय रोचते जैनधर्मः तस्याभिलाषमुत्पादयतीत्यर्थः । मूत्राय कल्पते यवागूः । सहस्रं धारयति चैत्रो मैत्राय, उत्तम) धनस्वामी पूर्व परस्य ऋणदाता, ऋणग्राहकस्त्वधमर्णः । प्रभृत्यन्यार्थदिक्शब्दबहिरारादितरैः । २ । २ । ७५ । ___ प्रभृत्यर्थैरन्यार्दिक्शब्दैर्बहिर् आराद् इतर इत्येतैर्युक्ता गौणाद् नाम्नः पञ्चमी स्यात् । कार्तिक्याः प्रभृति । वसन्तादारभ्य । - अन्यो विष्णुदत्ताद जिनदत्तः । भिन्नः शिवदत्ताद् विष्णुदत्तः । ग्रामात् पश्चिमायां दिशि वसति । पूर्वोऽवस्या गोनर्दः । बहिामाद् वटः । आराद् ग्रामात् क्षेत्रम् । इतरश्चैत्रात् । . . . . . 'गुणादस्त्रियां नवा ।२।२। ७७ । हेतुभूताद् गुणवाचिनः स्त्रीलिङ्गे वर्तमानाद् गौणाद् नाम्नः पञ्चमी वा स्यात् । जाड्याद् जाडयेन वा बद्धः । प्रज्ञायाः प्रज्ञया । वा मुक्तः ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy