________________
(११२)
शब्दाभिधेयं सत्त्वमू विशेष्यं द्रव्यम् । स्त्रीस्व-पुंस्त्व-नपुंसकत्वरूपं डी-आप-उङादिप्रत्ययहेतुभूतं लिङ्गम्, तच्च शब्दधर्मोऽर्थधर्मो वा। संख्या एकत्वद्वित्वादिरूपा । शक्तिः क्रियोत्पत्तौ हेतुभूता कारकस्वरूपा । पञ्चको नामार्थः डित्थः, डवित्थः, गौः, शुक्लः, कारकः, दण्डी इत्यादौ त्वम् , अहम्, पञ्च, कति इत्यादौ चतुष्कः; अलिङ्गत्वात । धवश्च खदिरश्चेत्यादौ चाव्ययस्य धोत्यरूपोऽर्थः ।
___आमन्त्र्ये । २।२ । ३२ । प्रसिद्धतत्सम्बन्धस्य किमप्यारन्यातुं संमुरवीकरणमामन्त्रणम्, तद्विषय आमन्त्र्यः । तस्मिन्नर्थे वतमानाद् नाम्न एकद्विबहुत्वविशिष्टार्थे सि-औ-जमुलक्षणा प्रथमा स्यात् । हे देव !। हे देवौ!। हे देवाः ।।
कर्तुाप्यं कर्म । २।२।३। का स्वक्रियया यद् व्याप्तुमिष्यते तद् व्याप्यं सत् कारक कर्मसङ्ग स्यात् । तच्च निवर्त्य-विकाय-प्राप्यभेदात् त्रिधा भिद्यते । तद्रूपन्यक्त्याऽसत् यत् सआयते सद्वा जन्मना प्रकाश्यते तद् निर्वयम् कटं करोति, पुत्रं प्रसूते । प्रकृत्युच्छेदेन गुणान्तराधानेन वा यद् विकृतिमापद्यते तद् विकार्यम् काष्ठ भस्म करोति, सुवर्ण कुण्डलं करोति । यत्र तु दर्शनादनुमानाद् वा क्रियाकृतो विशेषो नाप्यते तत् प्राप्यम् आदित्यं पश्यति, ग्रामं गच्छति । कतः किम् माषेष्वश्वं बध्नाति, अत्र कर्मणोऽश्वरूपस्य व्याप्या माषा