SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ (१००) अथ स्त्रीप्रत्ययप्रकरणम्। GOOOOO000 आत् । २।४।१८ स्त्रियां वर्तमानादकारान्ताद् नाम्नः पर आप् प्रत्ययः स्यात् । सुभद्रा । सीता । चन्दना । यक्षा। शाला । माला । माया । दोला। अजादेः । २।४ । १६ । अनादिसम्बन्धिन्यां स्त्रियां वर्तमानेभ्योऽजादिभ्यः पर आए प्रत्ययः स्यात् । जातिलक्षण-वयोलक्षणादिङ्यादिबाधनार्थ व्यन्जनान्तानां चाप्राप्तौ विधानार्थं वचनम् । अजा खट्वा एडका अश्वा चटका मुषिका कोकिला इत्यादौ जातिलक्षणो डीन भवति । बाला वत्सा होडा भन्दा विलाता एषु वयोलक्षणो सीन भवति । कुम्छा उष्णिहा देवविशा एषु व्यन्जनान्तानामपि आब् भवति । ज्येष्ठा कनिष्ठा मध्यमा एषु पुयोगेऽप्याप् । नम्पूर्वाद् मूलादपि आप अमूला। अस्यायत्तक्षिपकादीनाम् । २।४ । १११ । यत्-तत्-क्षिपकादिवर्जितस्य नाम्नोऽकारस्य स्थाने निद्भिनप्रत्ययावयवे आप्परे ककारे परे इ: स्यात् । आप्पर इति आबेव परो यस्माद् न विभक्तिः स आप्परः, तस्मिन्नापूपरे इत्यर्थः ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy