SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ (१८) अथ युष्मदस्मदोः प्रक्रिया | युष्मदस्मदोस्त्रिषु लिङ्गेषु समानानि रूपाणि, अलिङ्गत्वात् । युष्मद्+सि इति स्थिते त्वमहं सिना प्राक् चाकः । २ । १ । १३ । युष्मदस्मदोस्तदतत्सम्बन्धिना सिंना सह क्रमेण त्वम् अहम् इत्यादेशौ स्याताम् । तौ चाकः प्रसङ्गेऽकः प्रागेव स्याताम् । स्वम् अहम् । औप्रत्यये मन्तस्य युवावौ द्वयोः । २ । १ । १० । द्वित्वविशिष्टेऽर्थे वर्तमानयोर्युष्मदस्मदोर्मकारावसानस्यावयवस्य तदतत्सम्बन्धिनि स्वरादौ स्यादौ परे युव आबू इत्येतावादेशौ क्रमेण स्याताम् । युव+अद्+औ, आव+अ+औ ' लुंगस्य इत्यादिना पूर्वस्याकारस्य लुकि युवद् + औ, आवद् + औ इति स्थिते अमौ मः । २ । १ । १६ । " युष्मदस्मद्भयां परयोः तदतत्सम्बन्धिनोः अम् औ इत्येतयोः स्थाने म् इति व्यञ्जनमात्रादेशः स्यात् । युष्मदस्मदोः । २ । १ । ६ । युष्मदस्मदोस्तदतत्सम्बन्धिनिं व्यञ्जनादौ परे आकारो ऽन्तादेशः स्यात् । दीर्घे युवाम् । आवाम् ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy