SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ शब्दकौस्तुभः । [१ अ० उत्तरभाष्यस्योक्तिसम्भवालाभाच्च । अत एव भोभगो इतिसूत्रे भाष्यकारवृत्तिकारादिभिः सर्वैरपि वृक्षवित्युदाहृतम् । स्व. यमपीह तथैवोदाहृतमिति पूर्वापरस्वग्रन्थविरोधो भाष्यवृत्तिकैयटादिसकलमहाग्रन्थविरोधो मूलयुक्त्यभावश्चेति तिष्ठतु तावत् । प्रकृतमनुसरामः । मकारोपि त्रिभ्यो ग्राह्यः । पुमः खय्यम्परे । हलो यमा यमि लोपः । ङमो इस्त्रादचीति । चकारश्चतुर्व्यः । इकोयणचि । इच एकाचोम् । एचायवायावः । पूर्वी तु ताभ्यामैजीति । यकारोपि चतुर्व्यः । अनुस्वारस्य ययि । मय उसः। झयो होन्यतरस्याम् । पुमः खयोति । रः पञ्चभ्यः। यरोनुनासिके । झरो झरि सवर्णे । खरि च । अभ्यासे चर्च । वा शरि । शकारः षड्भ्यः । भोभगोअघोअपूर्वस्य योशि । हशि च । नेड्वशि कृति । झलां जश् झशि । एकाचो बशो भए । लकारोपि षड्भ्यः । अलोन्त्यस्य । हलि सर्वेषाम् । इड्वलादेः। रलो व्युपधात् । झलां जश् । शल इगुपधादिति । अयं च चतुर्दशसूत्रीस्थै हल्भिरिद्भिः संपन्नानामष्टाध्याय्यां व्यवहतानां प्रत्याहाराणां संग्रहः । तेन मुप्तिङादेरप्रत्याहारस्य ब. मन्ताड इत्युणादिषु व्यवहृतस्य अम्प्रत्याहारस्य यमित्रमन्तेष्वनिडेक इष्यतइति व्याघूभूतिना व्यवहनस्य च चयो द्वितीयाः शरि पौष्करसादेरिति वार्तिककृता व्यवहृतस्य चयपत्याहारस्य चाधिक्येप्यदोषः । संख्यानियमचायमुत्तरत्र एकचत्वारिंशद्भिर्व्यवहारादध्यवसीयतइति बोध्यम् । अत्र श्लोकवात्तिकम् । प्रत्याहारे ऽनुबन्धानां कथमज्ग्रहणेषु न । आचारादपधानत्वाल्लोपश्च बलवत्तरः । प्रत्याहारोक्षरसमाम्नायः । तत्र येनुबन्धास्तेषा,मज्ग्रहणेष्वित्युपलक्षणम्। अजादिप्रत्याहारग्रहणेषु । कथं नेति ग्रहणमिति शेषः । आदिरन्त्येनेति सूत्रेण हि अ.
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy