________________
१ पा. २ आ. शब्दकौस्तुभः । स्थानिवदित्युभयथापि स्थानिवद्भावनिषेधात्सम्प्रसारणप्रसङ्गो लोपोव्योवलीति लोपम्बाधित्वा, तदपवादस्योठः प्रसङ्गश्च । विचि तु स्थानिवद्भावाद्वानिमित्तो वलोपो न भवति । नन्वेव. मपि वृक्षकरोतीत्यत्र हलि सर्वेषामिति प्राप्नोति । न च स्थानिवद्भावः । पूर्वत्रासिद्धे तनिषेधादिति चेन्न। भो भगो इत्यतोशीत्यनुवांशि हलि तद्विधानादिति । न च विपक्षेपि णिच: प्राग्भाविनं क्विपमेवाश्रित्यो प्रसञ्जनीयः । अन्तर्भूतक्विवाश्रयतयान्तरङ्गे कर्तव्ये बहिर्भूतणिजपेक्षतया बहिरङ्गस्य टिलोपस्यासिद्धत्वात् । इदं त्विह वक्तव्यम् । विपक्षेप्येकदेशविकृतस्यानन्यत्वेन श्चतिग्रहणेन ग्रहणाद वश्चेति षत्वं दुर्वारम्। न च णिलोपस्य स्थानिवत्त्वम् । पदान्तविधौ नेति निषेधात् । पूर्वत्रासिद्ध नेति निषेधाच्च । तस्मानायं वृश्चतिरपि तु वेतिर्वाः तिर्वा, वृक्षं वेतीति वृक्षवीः वृक्षं वातीति वृक्षवाः। वृक्षव्यं वृक्षवां .. वाचष्टे वृक्षव्, विच, न तु क्विप् । ऊदप्रसङ्गात् । क्वौ विधि प्रति स्थानिवत्वनिषेधात् । तथा च देवयतेर्दयुरिति सिद्धान्तितम् । न चैवमपि लोपोव्योरित्यस्य प्रसङ्गः । स्थानिवत्वात् । न चपदान्तविधित्वम् । पदान्तश्चेद्विधीयतइत्यर्थात् । लोपस्य चानवयवत्वात् । विभावितं चेदं भोभगो इति सूत्रे कैयटेनेति दिक्। यत्तु हलि सर्वेषामिति सूत्रे हरदत्तेनोक्तम् । वृक्षत् करोतीत्येवंरूपः प्रयोगो नास्त्येव । अनभिधानात् । लणसूत्रे न पदान्ता हलोणः सन्तीति भाष्यकारोक्तेश्चानभिधानं निश्चीयतइति, तच्चिन्त्यम् । लण्मूत्रभाष्ये न पदान्ताः परेणः सन्तीति पा. ठात् । अप्रगृह्यस्येति पर्युदासाश्रयणेनाचामेव कार्यभाक्त्वादितरे
कार्यभाजो न सन्तीत्येवंपरतया कैयटेन तद्विवरणाच्च । ननु ' चायमस्ति कर्तृ इत्युत्तरभाष्येणास्य दूषितत्वाच्च । त्वदुदाहृतपाठे
११