SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ शब्द कौस्तुभः । [ १ अ० गृधिवच्योः प्रलम्भने । प्रतारणार्थाभ्यामाभ्यां ण्यन्ताभ्यामात्मनेपदं स्यात् । माणवकं गर्धयते वञ्चयते वा । प्रलम्भने किम् | श्वानङ्गर्धयति । अभिकांक्षामस्योत्पादयतीत्यर्थः । अहिं वञ्चयति । वर्जयतीत्यर्थः ॥ ४९२ लियः सम्माननशालिनीकरणायोश्च ॥ सम्माननशालिनीकरणयोश्चकारात्पलम्भने च वर्त्तमानाण्ण्यन्ताल्लीधातोरात्मनेपदं स्यात् । लीङ् श्लेषणे दिवादिः, ली श्लेषणे क्रयादिः, उभयोरपि ग्रहणम् । निरनुबन्धकपरिभाषा तु प्रत्ययविषयिणी । वामदेवाड्यड्याविति डित्करणेन ज्ञापिता हि सा । ज्ञापकञ्च सजातीय विषयक मेवेत्युत्सर्गः । सम्मानने, जंटाभिरालापयते । पूजां समधिगच्छतीत्यर्थः । अकर्मकश्चायम् । धात्वर्थेन क्रोडीकृतकर्मत्वात् पुत्रीयसीत्यादिवात् । शालिनीकरणे, श्येनो वत्तिकामुल्लापयते । न्यक्करोतीत्यर्थः । प्रलम्भने, बालमुल्लापयते । विभाषालीयतेरिति णावात्वं विधीयते । तदस्मिन्विषये नित्यम् | अन्यत्र तु विकल्पः । व्यवस्थितविभाषा हि सा । न च लीयतेरिति विहितमात्वं कथं लीनातेः स्यादिति वाच्यम् । लीनातिलीयत्योर्यका निर्देशोयमिति सिद्धान्तात् । संमाननादिष्विति किम् । बालकमुल्लापयति । आश्लेषयतीत्यर्थः ॥ मिथ्योपपदात्कृञोभ्यासे || ण्यन्तात्कृञो मिथ्योपपदादात्मनेपदं स्यात्पौनःपुन्ये । पदं मिथ्या कारयते । सापचा - रं स्वरादिदुष्टमसकृदुच्चारयतीत्यर्थः । नित्यवीप्सयोरिति द्वित्वं तु न भवति । आत्मनेपदेनैवाभ्यासस्य द्योतितत्वात् । करोतिश्चहोच्चारणवृत्तिरकर्मकः । ण्यन्तस्तूच्चारणवृत्तिः सककश्च । मिथ्योपपदात्किम् । पदं सुष्टु कारयति । कृञः
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy