SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ २१६ शब्दकौस्तुभः । [ १ अ० रे अन्तरा वा गृहाः । नगरबाबा चाण्डालादिगृद्दा इत्यर्थः । द्वितीये नगराभ्यन्तरगृहा इत्यर्थः । उपसंव्यानशब्दोपि करणव्युस्पत्योत्तरीयपरः । कर्मव्युत्पच्या त्वन्तरीयपरः । उभयथापि बहिर्योगेण गतार्थत्वात् । उपसंव्यानग्रहणं न कर्त्तव्यमिति भा ये स्थितम् । केचित्तु शाटकानां त्रये शरीरसंयुक्तस्य तृतीयस्य चतुष्टये तु चतुर्थस्य तत्संयुक्तस्य वा तृतीयस्य वहिर्योगाभावादुपसंव्यानग्रहणं कर्त्तव्यं शाटकयुगाद्यर्थमिति वदतो वार्त्तिककारस्याप्ययमेवाशय आदिशब्दवलादवगम्यते । भाष्यमते तु बहिर्योगग्रहणं स्वर्यते तेन शीतोष्णास्यां कारिणीत्यादाविव गौणग्रहणात्परंपरया बाह्यसंबद्धस्यापि भविष्यतीत्याहुः । सत्यपि बहिर्योगे पुरीविषयतायां न सर्वनामता, अपुरीति च वक्तव्य - मिति वार्त्तिकात् । तद्धि गणसूत्रस्य शेषो न तु जसि विभाषाविधायकस्य अत इत्यधिकृत्य जसः शीविधानादाबन्तात्प्राप्त्यभावात् । अन्तरायां पुरि, प्राकाराद्वाह्यायां तदन्तर्वर्त्तिन्यां वेत्यर्थः । लिङ्गविशिष्टपरिभाषयैकादेशस्य पूर्वान्तग्रहणेन ग्रहणाद्वा प्राप्तिर्बोध्या । त्यत्र तद् एतौ पूर्वोक्तपरामर्शको, तत्राद्यश्छान्द.सः । एषस्यभानुरिति गणरत्नकारस्तन्न । तथा सति स्यश्छन्दसि बहुलमिति सूत्रे छन्दोग्रहणवैयर्थ्यापत्तेः । यदुद्देश्य समर्पकः । एतदिदमौ प्रत्यक्षोपस्थिते । अदस् व्यवहिते । एको Sन्यार्थे मधाने च प्रथमे केवले तथा । साधारणे समाने च संख्यायां च प्रयुज्यते ॥ द्विशब्दो द्वित्वविशिष्टे ऽलिङ्गः । संबोधनैक. विषयश्च युष्मदर्थः । अस्मच्छन्दस्तूच्चारयित्रर्थः । सलिङ्गः संबोधनव्यभिचारी च भवत्वर्थः । भातेर्डवतुरितिव्युत्पादितोयम् । यद्यप्यस्मात्स्मायादयो न सम्भवन्ति सर्वनाम्नस्तृतीयाचेति, निमित्तकारणहेतुषु सर्वासां प्रायदर्शनमित्यनेनैव गतार्थ, त 3
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy