SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ २१५ १ पा. ६ आ. शब्दकौस्तुभः । स्मात्मीययोरित्येव तु वक्तुमिहोचितम् । स्वस्मै इत्यादि । जसि विभाषाविधायके. ऽष्टाध्यायीस्थे मूत्रप्येवम् । यत्तु तत्र स्वमात्मीयइत्येव वक्तुमुचितमात्मवाचिनो नपुंसकतया जसि विभाषायामुपयोगाभावादिति के चित् । तच्चिन्त्यम् । सूत्रसामादेवात्मन्यपि पुंस्त्वलाभात् । अत एवामरकोशेप्यात्मनीति पूर्वान्वयि स्वमिति तूत्तरान्वयि । तथा च हेमचन्द्रः । चौः स्वर्गनभसोः स्वो ज्ञात्यात्मनोः स्वं निजे धने इति । मेदिनीकारोपि । स्वः स्यात्पुंस्यात्मनि ज्ञातौ त्रिष्वात्मीये स्त्रियां धनइति । वस्तुनस्तु पूर्वपरेत्यादित्रिसूत्र्यामर्थनिर्देशः पाठविशेषणम् । तेनेतरेषां पाठादेव पर्युदासः । तथा च विभाषा जसीति प्रकरणे पूर्वादीनि नवेत्येव लाघवात्कर्तव्यम् । त्रिसूत्री तु न पठनीयैवेति निष्कर्षः । अथवा गणपाठ एव पूर्वादिनवकपाठानन्तरं विभाषाजसीति कर्त्तव्यं पूर्वादीनि चार्थविशिष्टान्यनुवर्तनीयानि । न च सर्वादीनामप्यनुवृत्तिः शङ्कया । नेमस्य जसि विभाषारम्भात् । यद्वा । जस्ङसिङीना शिस्मास्मिनः,पूर्वादिभ्यो नवभ्यो वा, औङ आपः शी, नपुंसकाच्चति, ससमे न्यासः कर्त्तव्यः । परमार्थस्तु सप्तमे यथान्यासमेवास्तु । पू. वादिभ्यो नवभ्यो वेत्येतत्तु जसः शीत्यत्रानुवर्त्य वाक्यभेदेन सम्भन्त्स्यते वाछंदसीत्येतदमिपूर्व इत्यत्र यथा, तथा चेयं त्रिसू. त्री अष्टाध्याय्यां न पाठ्येति स्थितम् । असंज्ञायामिति तु नकाथमन्वर्थसंज्ञयाभिव्यक्तपदार्था यइति न्यायेन वा संज्ञाया व्युदस्तत्वात् । अन्तरशब्दस्तु नानार्थः । तथा चामरः । अन्तरमवकाशावधिपरिधानान्तार्द्धभेदतादर्थे । छिद्रात्मीयविनाबहिरवसरमध्येन्तरात्मनि चेति । तत्र बहिर्योगोपसंव्यानयोरेवार्थयोः संज्ञा । बहिरित्यनावृत्तो देशो बाह्यं चोच्यते । तत्राये अन्त
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy