SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ HPBB forze po ung Bonete Ne PošJUE SHOP HOOP JRALES PICHARRARIERREE पनः प्रकाशनावसरे...भा. THESE FIRST 95015HRIRGE SLEAhecles विशदमपि भवेद् विशदं विशदया मनीषया मनीषिणाम्। WARA सहजमपिशुचिसद्रत्नं शाणेनोत्तेजितं महसा ॥१॥(अमृत) For सद्वृन्दैनूतनसंस्कारसुधयाऽनवरतं संसिच्यमानाः समूलचूलं च विवर्धमानाः साहित्यशाखिनो विद्वद्वन्दस्यानन्दवल्लरीभ्योऽखण्डशाखिनो विटपिनो भवन्ति। मलधारीदेवप्रभसूरिभिर्देवप्रभाववर्धिन्या देववाण्या विरचितमेतत् 'पाण्डवचरित्रमहाकाव्यम्, प्राज्ञानां प्रज्ञापादपाय पीयूषायते। 151sAGyayrajasalis PIPI तच्चेदानींतने समये नूतनविधया प्रकाश्यमानताया अवकाशमर्हति स्म, अतो भीमसीमाणेकनाम्ना श्राद्धमहोदयेनास्य गूर्जरगिरायामनुवादो द्विः प्रकाशितः, प्रथमं क्राईस्टे १८७८ तमे, ततः १९१५ तमे क्राइस्टे वर्षे च, तदनन्तरं 'काव्यमाला' नाम ग्रन्थप्रकाशनश्रेण्यां केदारनाथ-वासुदेवशर्माऽभिधाभ्यां विद्वद्भ्यां क्राइष्टे १९११ (विक्रमे १९६७) तमे वर्षे, तथा जेठालालहरिलाल शास्त्री महाशयेन संपादितमेतत्, प्रकाशितं च १९३६ (१९९२ विक्रमार्क) तमे वर्षे पादलिप्तपुर्यां संस्थितया 'ए एम एण्ड कम्पनी' इत्यभिधया संस्थया इति । अधुना च 'पुनः पुनः प्रथितं किञ्चिद् नवां नवां शुद्धि संस्कारमाप्याऽधिकं जाज्वल्यते' इति मनीषया, अस्मद्गुरुभिः श्रीश्रेयांसप्रभसूरिभिः पुनः संशोध्य, शुद्धमपि शुद्धतरं विहितम्, प्रकाशितं च राजनगर [ अमदावाद ] स्थितया 'स्मृतिमंदिर' नाम्न्या संस्थया । देवप्रभाचार्यः सुकविकुलतिलकः कवितासुधा-ऽब्धीयमानः कां भूमिं निजजन्मना व्यभूषयत्, कं वा वंशं मातर-पितरं वेति ज्ञातुमलं साधनाभावबाधितानस्मान् केवलं तस्य गुरुपर्वक्रमज्ञप्त्यै पाण्डवचरित्रस्य प्रशस्तिरेवाधिकारिणी-यतो ज्ञायते यद् कोटिकाख्यगणस्य मध्यमाभिधानशाखायां प्रश्नवाहनकुले सुमनोभिरामो हर्षपुरीयगच्छोऽभवत्, तत्र श्रुतसुधाम्भोधिचन्द्रमाः तर्कपञ्चाननः प्रथमो 'मलधारी' अभयदेवसूरिरासीत्, ( डोणगाजागा )
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy