SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ 10 ३९४] [पाण्डवचरित्रमहाकाव्यम् । युधिष्ठिरस्य नम्रता उचिताचरणं च ॥ दृष्ट्वा पार्थं पृथुश्रीकमश्रीकं च पति तदा । भानुमत्या मनो जज्ञे सङ्कीर्णरससङ्कुलम् ॥१४२॥ समुत्तीर्य विमानेभ्यः सर्वे नेमुर्युधिष्ठिरम् । दुर्योधनस्तथैवासीदप्रणन्तुमनाः पुनः ॥१४३॥ आपादमौलि तस्यासीन्न्यस्ता सत्यं कुशीलता । यदस्य नम्रता नाभूद् धर्मजेऽपि महात्मनि ॥१४४॥ असौ द्राघीयसो बन्धादचङ्क्रमण इत्यतः । उत्पाट्य खेचरैर्नीतो नृपाभ्यणे सुयोधनः ॥१४५।। वेगादागत्य कुन्ती तु नीवाराक्षततण्डुलैः । आशी:परम्परापूर्वं तं तदानीमवर्धयत् ॥१४६॥ राज्ञाऽऽश्लिष्यत स प्रीत्या मत्सरादनमन्नपि । न ह्यौचित्यविधौ सन्तः परौचित्यव्यपेक्षिणः ॥१४७॥ अजल्पत्तं नृपो वत्स ! किमु तेजस्विनोरपि । राहुबन्दिग्रहो नैव सूर्याचन्द्रमसोर्भवेत् ? ॥१४८॥ नाभविष्यत्तवावश्यमसावपि पराजयः । यदि द्वैतवनादस्मान्नायास्यामः पुरः पुरा ॥१४९॥ अनाथाः कुरवो वत्स ! बाढं सीदन्ति सम्प्रति । तत्तानवार्यदोर्वीर्य ! गत्वा नय सनाथताम् ॥१५०॥ एवमाभाष्य सत्कृत्य भूपतिर्वन्यवस्तुभिः । पर्यश्रुः सानुजन्मानं विससर्ज सुयोधनम् ॥१५१॥ सोऽपि कृष्णमुखस्तूष्णीमेवास्थाय ययौ ततः । दुरात्मन्युपकारोऽपि नश्येन्नीरं मराविव ॥१५२॥ चित्राङ्गदं विसृज्याथ चन्द्रशेखरमप्यनु । तस्थौ तास्ताः कथाः कुर्वन्नुर्वीशः सह जिष्णुना ॥१५३॥ सानुकम्पा नृपस्यासीत्तत्र दौर्योधनी कथा । अपरेषां तु बन्धूनामुपहासपुरःसरा ॥१५४॥ 15 20 १. अनमनचित्तः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy