________________
___[३९३
[३९३
नवमः सर्गः । दुर्योधनं मोचयित्वा युधिष्ठरसमीपागमनम् ॥]
सेचं सेचं त्वया शश्वल्लालितं यदपत्यवत् । तदभूत्सम्प्रति प्राप्तलवनं कदलीवनम् ॥१२९॥ भास्वन्मरकतस्तम्भं स्फटिकोपलभित्तिकम् । स सौधं तत्तवाध्यास्ते बलाद् व्यापाद्य रक्षकान् ॥१३०॥ अहं तूत्प्लुत्य नभसा तवेहाख्यातुमागतः । इतो यदुचितं देव ! त्वं तदाधातुमर्हसि ॥१३१॥ निशम्यामूदृशीं वाचं नारदस्य च तस्य च । क्रोधाद् दुर्योधनं हन्तुमुत्सुकोऽहमधाविषम् ॥१३२॥ यदार्ये तपसः पुत्रेऽप्यमुना दुर्मनायितम् । असौ तेनांहसा बद्धः कोऽहमस्य पुरः पुनः ॥१३३॥ अथोवाच पृथासूनुश्चित्राङ्गद ! मुखेन मे । जवात्तवादिशत्यार्यो दुर्योधनविमोचनम् ॥१३४॥ भानुमत्यधुना येन भर्तृभिक्षाञ्चलं पुरः । उदश्रुधृतवत्यस्ति तेनार्यः खिद्यतेतमाम् ॥१३५।। तयोरेतां गिरं श्रुत्वा धार्तराष्ट्रो व्यचिन्तयत् । क्षते प्रक्षिपति क्षारं हा ! धिग्वेधाः पुनः पुनः ॥१३६॥ ततश्चित्राङ्गदोऽवादीत्कुमार ! स्फारसौरभः । आदेशो मे नरेशस्य शिरोमाल्यमनारतम् ॥१३७॥ भ्रातरं प्राभृतीकृत्य धर्मसूनोरिमं पुनः ।। मुखेन्दुमुच्छलज्ज्योत्स्नं करिष्याम्यधुना ध्रुवम् ॥१३८॥ विमोच्य बन्धनाद्वन्धुमानम्य च धनंजयः । चित्राङ्गदसमेतोऽथ ज्येष्ठान्तिकमुपागमत् ॥१३९॥ विमानकिङ्किणीक्वाणश्रवणेनोन्मुखीकृतैः । नभस्यदृश्यताऽऽगच्छन् बन्धुभिः स विकस्वरैः ॥१४०॥ नयनैः स्नेहकल्लोलैर्निनिमेषैरुदैक्ष्यत ।। कुन्त्या च याज्ञसेन्या च स विमानशतान्वितः ॥१४१॥
१. कल्लोल-प्रत्यन्तर ।