SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ अष्टमः सर्गः । प्रियंवदविसर्जनं द्रौपद्यादीनां क्रोधोद्गाराः ॥ ] स्नेहादापदमस्मासु नैवाशङ्कितुमर्हथ । युष्मदाशीर्भिरस्माकं रिपुर्न प्रभविष्यति ॥१५५॥ कृकलासः कृतोल्लासमारूढः शिखरं वृतेः । व्युत्पश्यन्सतिरस्कारं भास्करस्य करोति किम् ? ॥१५६॥ इति धर्मसुतः प्रीतः समर्प्य प्रतिवाचिकम् । सत्कृत्य वन्यसत्कारैर्विससर्ज प्रियंवदम् ॥१५७॥ धाष्ट्र्र्व्यं तद् धार्तराष्टस्य श्रुत्वा श्रवमदुःसहम् । विहाय स्त्रैणमर्यादां जगाद द्रुपदात्मजा ॥ १५८॥ छद्मना मेदिनीं जित्वा कृत्वा मे केशकर्षणम् । दत्त्वा कान्तारवासं च रिपुर्नाद्यापि तृप्यति ॥ १५९ ॥ एवं वनेचरानस्मान् येनागत्य जिघांसति । निर्मर्यादा ह्यकृत्येषु मत्सरच्छुरिताशयाः ॥ १६०॥ देवि ! वन्ध्येव कुन्ति ! त्वं न शूरप्रसवा किमु । पुत्रिणीनां त्रपाकारि कथं क्लीबप्रसूरभू: ? || १६१॥ अहो सुबाहवः पाण्डोः सूनवोऽभिनवौजसः । पुरतः पश्यतां येषां प्रिया केशेषु कृष्यते ॥ १६२॥ आर्यपुत्र ! तपःसूनुः सत्यमेव त्वमुच्यसे । रिपोः परिभवेऽप्येवं क्षमा ते कथमन्यथा ? ॥ १६३ ॥ निकारं कुरुवंशोऽपि संसहेत यदीदृशम् । तर्हि सा नाम निर्नाम निर्ममज्ज मनस्विता ॥१६४॥ यदि नाम वनक्लेशो लेशतोऽप्यस्ति नात्मनः । किं दुनोति न ते चेतो बन्धुदत्तापदोऽप्यसौ ? ॥१६५॥ सूक्ष्मक्षौमोचिता येऽमी बन्धवस्तव भूधव ! । वल्कलानि वसानांस्तान् किमु पश्यन्न लज्जसे ? ॥१६६॥ [ ३५१ भ्रातरः सिन्धुरारोहकेलिदुर्ललिता हि ये । चरन्तः पादचारेण त्वां व्यथन्ते न ते किमु ? ॥१६७॥ १. नाऽऽसीरप्रसवा प्रतौ । २ तिरस्कारम् । ३. दत्तापदे दत्तपदो इति प्रत्यन्तरपाठः । 5 10 15 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy