SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ३५०] [पाण्डवचरित्रमहाकाव्यम् । प्रियंवदेन कथिता दुर्योधनस्य दशा ॥ स किं शास्त्यधुना धात्रीमनयेन नयेन वा ? । स्नेहात्तमनुरुध्यन्ते भीष्मद्रोणादयोऽपि किम् ? ॥१४२॥ इति पृष्टो यथादृष्टं समाचष्ट प्रियंवदः । कुरुनीतिरनीतिश्च नैति राज्ञि सुयोधने ॥१४३॥ पितरीवातिवात्सल्यात्प्रजाऽभ्युदयतत्परे । संपद्भिः कुरवस्तस्मिन्प्रशासति चकासति ॥१४४॥ पुरुषार्थाः किलैकत्र निवासस्पृहयालवः । नवे तत्र धरित्रीशे न बाधन्ते परस्परम् ॥१४५॥ स प्रज्ञामृतकुल्याभिः सेचसेचमनारतम् । अनपायमुपायडूंनादत्ते फलमुत्तमम् ॥१४६।। आकर्णितभवन्मृत्युनिराशीभूतमानसाः । भीष्माद्याश्चक्रिरे तेन सर्वथाऽऽत्मवशंवदाः ॥१४७॥ संप्रत्यावर्जितास्तेन दानेन विनयेन च । प्राणैरपि समीहन्ते ते विधातुं तदीप्सितम् ॥१४८॥ आत्मानं मन्यते क्षोणिषट्खण्डाखण्डलोपमम् ।। स यद्यपि तथाप्यन्तर्भवद्भ्यो वहते भियम् ॥१४९॥ अर्जुनात्तरुनाम्नोऽपि स स्मृतार्जुनविक्रमः । भीतो मुञ्चति निःश्वासान्कम्पते च मुहुर्मुहुः ॥१५०॥ वने वृकोदरं क्वापि दृष्टवा स्मृत्वा वृकोदरम् । मृगव्यव्यावृतोऽप्याशु स खिद्यति भयातुरः ॥१५१॥ स्वप्ने भीमार्जुनौ वीक्ष्य द्रुतं जागरितो भयात् । स क्षोभं लम्भयत्येवं भृशं भानुमतीमपि ॥१५२॥ इत्याकर्ण्य तपःसूनुः प्रत्युवाच प्रियंवदम् । मगिरा भद्र ! विज्ञाप्यौ तौ तातविदुरौ त्वया ॥१५३॥ निखिलं युष्मदादिष्टं प्रहृष्टाः प्रतिशुश्रुमः । नमस्यामश्च भक्त्या वः क्षोणीमिलितमौलयः ॥१५४॥ 15 25 १. कुरुष्वीतिरनीतिश्च० प्रति । २. व्यापृतो प्रतौ ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy