SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ [३३७ सप्तमः सर्गः । महाबलस्य राज्याभिषेकः ॥] भक्त्यानुकूलिता ह्येते कामदाः कल्पपादपाः । भवेयुः प्रतिकूलास्तु विषमा विषपादपाः ॥६९१॥ महामांसनिषेधं चेत्वत्तातः प्रत्यपत्स्यत । नाहनिष्यत्तदाऽवश्यमेनं मध्यमपाण्डवः ॥६९२॥ तद्गत्वा विनयीभूत्वा तान् पित्रीयितुमर्हसि । पुत्रीयिष्यन्ति तेऽपि त्वां सन्तो हि नतवत्सलाः ॥६९३॥ इति देवीसमादेशादस्मि युष्मानुपस्थितः । मामप्यात्मविधेयानामन्त्यं सङ्ख्यातुमर्हथ ॥६९४॥ पश्यतामथ पौराणां व्याजहार वृकोदरः । आर्यपादाः प्रसन्नास्ते निवर्तस्व वधान्नृणाम् ॥६९५।। इत्युक्तस्त्यक्तवान्सोऽथ तमधर्म्य वधक्रमम् । अभ्यषिञ्चत साम्राज्ये पैतृके तं तपःसुतः ॥६९६॥ इमे ते विस्फुरत्कीर्तिताण्डवाः पाण्डवा इति । ज्ञातवद्भिस्तदा पौरैर्भूयोऽपि मुमुदेतमाम् ॥६९७।। नृपतिश्चैकचक्रायाः पौराश्च तपसःसुतम् । समं विज्ञापयामासुः पुर्यां पादोऽवधार्यताम् ॥६९८॥ विन्यस्तस्वस्तिकां कामं तोरणप्रवणापणाम् । गन्धाम्बुसिक्तसर्वाध्वपुष्पप्रकरदन्तुराम् ॥६९९॥ सबन्धुर्बन्धुरश्रीकामेकचक्रां युधिष्ठिरः । महाबलोपनीतेन विमानेन ततोऽविशत् ॥७००॥ युग्मम् । आगन्तूनामभिज्ञाभिर्भीमः पौरपुरन्ध्रिभिः । बद्धानुरागमङ्गुल्या सप्रमोदमदीत ॥७०१॥ असौ नगरजीवातुरसौ बकनिषूदनः । जगुरेवं पुरस्तस्य बन्दिनो बिरुदावलीम् ॥७०२॥ १. अधीनः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy