SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ पीत-रक्तयोरक्यं यथा"नवकनकपिशङ्ग वासराणां विधातुः, ककुभि कुलिशपारणे ति भासां वितानम् । जनितभुवनदाहारम्भमम्भांसि दग्ध्वा , चलितमिव महाब्रुव॑मौर्वानलाचिः ॥१॥" अत्र पीत-रक्तयोः भिन्नत्वेऽपि ऐक्यं निबध्यते । एवं रक्त-गौरयोः इन्दौ शशमृगयोः कामध्वजे मकरमत्स्ययोः कन्दर्पस्य मूर्तत्वाऽमूर्त्तत्वयोः भिन्नत्वेऽपि ऐक्यं निबध्यते । ५- देविवर्णने विज्ञान-चातुर्यत्रपाशीलव्रतम्, रूपं, लावण्यं, सौभाग्यं, प्रेम, शृङ्गार इत्यादयो वर्ण्यन्ते । ६- मन्त्रवर्णने यथा"मन्त्रे पञ्चाङ्गता शक्तिषाड्गुण्योपायसिद्धयः । उदयाश्चिन्तनीयाश्च, स्थैयौन्नित्यादिसूक्तयः ॥" अस्मिन् श्लोके मन्त्रवर्णनं प्रोक्तमिति । ७- नृपवर्णने विद्या, वयः, शक्तिः, प्रजाशास्तिः, प्रजारागः ,धर्मार्थकामेषु तुल्यतादिकं वर्ण्य ते । साहित्यरत्नमञ्जूषा-२४५
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy