SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ भामहो रीतिशब्दस्यार्थः काव्यम्, दण्डिभोजौ मार्ग : ( पन्था ) आनन्दवर्धनः पदसंरचना, रुद्रकमम्मटौ वृत्तिः, विश्वनाथः रीतिरिति अभिहितवन्तः । भोज : रीङ गतौ, धातोः क्तिन् प्रत्यये सति रीतिपदं निष्पादयति त स मार्ग: ( पन्था ) इत्यर्थं सम्पादयति वैदर्भादिकृतः पन्थाः काव्ये मार्ग इति स्मृतः । रीङ् गताविति धातोः सा व्युत्पत्त्या रीतिरुच्यते ॥ प्राचार्य वामनः काव्यस्य श्रात्मा रीति इति स्फोरयति - 'रीतिरात्मा काव्यस्य' । अत्र च तेन 'विशिष्टपदरचना रीतिः' स्वीकृता । विशेषतेयं गुणानां संश्लेषणाश्रिता - 'विशेषी गुणात्मा' | काव्यशोभोत्पादकान् धर्मान् गुणान् प्रचक्षते - 'काव्यशोभायाः कर्त्तारो धर्मा गुणाः अत्र तावत् गुणो नित्यधर्मः, श्रलङ्कारश्चानित्यः । वामनमतानुसारेण काव्यस्य समस्तं सौन्दर्यं रीतौ प्रतिष्ठितम् । सौन्दर्यमेतद् दोषाणां परिहारेण गुणालंकारसफलप्रयोगेण च सुतरामाविर्भवति - काव्यं ग्राह्यमलंकारात्, सौन्दर्यमलंकारः स दोष- गुणहानादानाभ्याम् । अन्ये प्राचार्याः रीतिपदेन गुणाभिव्यञ्जकवर्णानामर्थ - ग्रहणव्युत्पत्ति स्वीकुर्वन्ति रीयते माधुर्यादिगुणानां विशेषो साहित्यरत्न मञ्जूषा - २२९
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy