SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ प्रवर्तकश्च भरत इति । नाट्यशास्त्रस्य षष्ठे सप्तभे चाध्याये रसविकल्पकता, भावव्यञ्जकता च सुतरां स्फुटीभवति । 'विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः ।' इति रससिद्धान्तविषये भरतमुनेः सूत्रम् । साहित्ये रसानां महत्त्वं स्फुटतरं स्वयंसिद्धञ्चास्ति, यतो हि काव्यस्य मूलतत्त्वं रस एव । विभिन्न ष्वपि काव्यसम्प्रदायेषु रसस्य महत्ता जागति । ___ध्वन्याचार्यैरपि वस्तुध्वनिः, अलङ्कारध्वनिः, रसध्वनिश्च स्वीकृताः किन्त्वत्र रसध्वनेः प्राधान्यं स्वीकृतम् । रसोक्त : महत्त्वपूर्ण स्थानं मन्यमानेन भोजराजेनोक्तम् वक्रोक्तिश्च रसोक्तिश्च स्वभावोक्तिश्च वाङ्मयः। सर्वासु ग्राहिणी तासु रसोक्ति प्रतिजानीते ॥ आलंकारिकैः रससत्ता रसवदाद्यलंकाररूपेणैव स्वीकृता । प्राचार्यभामहोऽलङ्कारवादी सोऽत्र मनुते । यदुत्तमकाव्यायालंकारतत्त्वमनिवार्यम् । अस्य मते रसो गौणः, अलङ्कारेष्वेवान्तर्भूत इति-उक्तञ्च काव्यालङ्कारेरसवद्दशितस्पष्ट शृंगारादि रसं यथा । (काव्यालंकार ३/६) साहित्यरत्नमञ्जूषा-२२०
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy