SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ स्तुत्या निन्दा यथा "कृपणेन समो दाता, न भूतो न भविष्यति । अस्पृशन्नेव वित्तानि यः परेभ्यः प्रयच्छति ।। " अत्र स्तुतिद्वारा निन्दा, तस्माद् व्याजस्तुतिरलङ्कारः प्रवर्त्तते । १६- प्रर्थान्तरन्यासालङ्कारः- “यत्र सामान्यं विशेषेण विशेषश्च सामान्येन समर्थ्यते - तत्र प्रर्थान्तरन्यासालङ्कारः " "विशेषेण हि सामान्यं, सामान्येन विशेषकम् । समर्थ्यतेऽन्योऽन्यं वाऽर्थान्तरन्यास मन्यते ॥ १ ॥ " अन्योऽन्योऽर्थोऽर्थान्तरं तस्य न्यासः न्यसनम्, प्रर्थान्तरन्यासः मुख्यार्थसम्बन्धमर्थान्तरं यत्र स्यात् तत्र अर्थान्तरन्यासः । सामान्यं विशेषो वा सामान्येन विशेषेण वा समर्थ्यते यत्र तत्र अर्थान्तरन्यासः अलङ्कारः । अन्यच्च – समर्थ-समर्थकयोः सामान्यविशेषसम्बन्धेऽर्थान्तरन्यासः तदितरसम्बन्धे च काव्यलिङ्गमिति । केचित्तु - "समर्थनाद्यक्षसमर्थने काव्यलिङ्गम् तन्निरपेक्षसमर्थनेऽर्थान्तरन्यासः ।" यत्र सामान्यविशेषरूपाथन्तिरेण पूर्वार्थसमर्थनम्, तत्र प्रर्थान्तरन्यासोऽलङ्कारः । साहित्यरत्नमञ्जूषा - १९८
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy