SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ सममेव समाक्रान्तं, द्वयं द्विरदगामिना । तेन सिंहासनं पित्र्यं, मण्डलं च महीक्षिताम् ॥ १॥ अत्र अतिशयोक्तिरलङ्कारः वर्तते । १२- दृष्टान्तालङ्कारः - “यत्रोपमानोपमेययोभिन्नौ धमौ बिम्बप्रतिबिम्बभावेन वरिणतौ तत्र दृष्टान्तालङ्कारः।" ___ यत्र बिम्ब-प्रतिबिम्बत्वं दृष्टान्तस्तत्र वर्ण्यते । चेद् यदि वाक्यार्थयो बिम्बश्च प्रतिबिम्बश्वे ति बिम्ब-प्रतिबिम्बौ तयोर्भावो बिम्बप्रतिबिम्बत्वम् । "बी गति व्याप्तिपूजनकान्त्यसनखादनेषु' इति धातोः "उत्वादयश्च (४।६५) इत्यौणादिकात् सूत्राद् वन्न मागम ह्रस्वत्वे बिम्बशब्दसिद्धिः। यथा दर्पणे बिम्बवत् प्रतिबिम्बः दृश्यते तथैव एकवाक्यवदपरवाक्यं यत्र तद् तदा दृष्टान्तोऽलङ्कारो भवति । दृष्टोऽन्तो निश्चयः यस्मिन् स दृष्टान्तः । उपमानोपमेयनिष्ठ - वाक्यधर्मयोःबिम्बप्रतिबिम्बभाव यत्र तत्र दृष्टान्तः । वस्तुतो भिन्नयोरपि उपमानोपमेययोः परस्परसादृश्याद्भिन्नयोः पृथगुपादानं बिम्बप्रतिबिम्बभावः । “दृष्टा मयाऽहत्प्रतिमा, तन्मृष्टा दैवदुष्कृतिः ।” यथा"अविदितगुणाऽपि सत्कविभरिणतिः , कर्णेषु वमति मध्धारां । अनधिगतपरिमलाऽपि हि , हरति दृशं मालतीमाला ॥ १ ॥" साहित्यरत्नमञ्जूषा-१९२
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy