SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ स्वरयुक्ताक्षर विशिष्ट व्यञ्जनं पदान्ते वा आवर्त्यते तत्र अन्त्यानुप्रासः। यथा केशः काशस्तबकविकासः , ___ कायः प्रकटितकरभविलासः । चक्षुर्दग्धवराटककल्पं, त्यजति न चेतः काममनल्पम् ॥१॥ (ङ) लाटानुप्रासः-शब्दगतोऽयमनुप्रासः, यत्र तात्पर्यमात्रतः भेदे सति शब्दार्थयोः पौनरुक्त्यं तत्र लाटानुप्रासः । लाटजनप्रियत्वादेष लाटानुप्रासः, भिन्नाभिप्रायक पुनरुक्तत्वं लाटानुप्रासः । साहित्यदर्पणे- "शब्दार्थयोः पौनरुक्त्यं भेदे तात्पर्यमात्रतः" इति साहित्यदर्परणे लक्षणमुक्तम् । काव्यप्रकाशे तु पदानां पदस्य एकसमासे भिन्नसमासे समासासमासयोश्च नाम्नः सारूप्यात् पञ्चधा लाटानुप्रासः । यत्र वैरिणः हुंकारशब्दो न स्यात् जितं सफलम् । यथा"यत्र स्यान पुनः शत्रोः गजितं तज्जितं जितम् ।" अत्र "जितं जितम्" इति पुनरुक्तपदे द्वितीयजितशब्दस्य सफलतारूपाभिप्रायात् लाटानुप्रासत्वम्” । अन्यच्च स्मेर राजीवनयने, नयने कि निमीलिते । पश्य निजितकन्द, कन्दर्पवशनं पतिम् ।। साहित्यरत्नमञ्जूषा-१७८
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy