SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ (ख)वृत्त्यनुप्रासः- रसानुगुणा वर्णरचनावृत्तिःवृत्त्यनुप्रासः । "वृत्त्यनुप्रासवचनं अमन्दानन्दमन्दिरम्" 'एकस्याप्यसकृत्परः' काव्यप्रकाशे वरिणतः । असकृदनेकवारमावर्त्तनं वृत्त्यनुप्रासः । आवृत्तवर्णेन सम्पूरितं वचनं वृत्त्यनुप्रासे भवति । वृत्तम् अर्थात् आदितोऽवसानपर्यन्तं वर्त्तनम् । तदस्यास्तीति वृत्ती तस्यानुप्रासः सोऽस्यामस्तीति वृत्त्यनुप्रासः । संक्षेपतः यत्र वर्णानामनेकवारमावृत्तिः तत्र वृत्त्यनुप्रासः । यथा(१)उत्कूजन्तु वटे-वटे बतबकाः काकाः वराका अपि , क्रां कुर्वन्तु सदा निनाद - पटवस्ते पिप्पले-पिप्पले । सोऽन्यः कोऽपि रसालपल्लवनवग्रासोल्लसत्पाटवः , क्रीडत् कोकिलकण्ठकूजनकला-लीलाविलासक्रमः ॥ (२) अमन्दानन्दसन्दोहस्वच्छन्दास्पदमन्दिरम् । (ग) श्रुत्यनुप्रासः- यत्र समानोच्चारणस्थानानां वर्णानां प्रयोगः विधीयते तत्र श्रुत्यनुप्रासः भवति । एकैव स्थानोच्चारिताः शब्दाः श्रवणमधुराः भवन्ति अतः यत्र कण्ठ- तालव्य - मूर्धन्य- दन्त्यौष्ठ - नासिका स्थानानां वर्णानां आवृत्तिर्जायते तत्र श्रुत्यनुप्रासः भवति । यथा जयतु जिनेश्वर जय, जय ‘सुशील' सन्तापहर । (घ) अन्त्यानुप्रासः- यत्र यथासम्भवमनुस्वारविसर्ग साहित्य-१२ साहित्यरत्नमञ्जूषा-१७७ ।
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy