SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ अन्यच्च अर्थपरम्परया स्वल्पतात् पर्यार्थकप्रत्यायकत्वं क्लिष्टत्वम् । यथा- "हरिप्रिया पितृवधूप्रवाहप्रतिभं वचः"। हरेः प्रियाःलक्ष्मीःतस्याः पिता समुद्रः तस्य वधूः गङ्गा तस्याः प्रवाहप्रतिभं प्रवाहतुल्यं ते तव वचः अस्ति । अर्थात्- गङ्गाप्रवाहसदृशं ते वचः अस्ति । अत्र समस्तपदगतो दोषः । अन्यच्च कष्टत्वं यत्र वाचि न सम्यग् भासते वा दुःखबोधत्वं यत्र वर्त्तते । यथा सदा मध्ये या साममृतरसनिष्पन्दसरसं , सरस्वत्युद्दामा वहति बहुमायां परिमलम् । प्रसादं ता एता घनपरिचयाः केन महतां, , महाकाव्यव्योम्नि स्फुरितरुचिरायां तु रुचयः ॥१॥ या सा कविरुचीनां प्रतिभास्वरूपाणां प्रभाणां मध्ये बहुमार्गा सुकुमारविचित्रमध्यमात्मक त्रिमार्गा सरस्वती भारती परिमलं चमत्कारं वहति । ताः कविरुचयो महाकाव्यव्योम्नि सर्गबन्धलक्षणे परिचयमागताः । अपुष्टः अपुष्टोऽर्थो यस्मिस्तदपुष्टार्थदूषणं भवति । मुख्यानुपकारकविशेषणोपादानत्वमपुष्टार्थम् । यत्र शब्दपरि साहित्यरत्नमञ्जूषा-१५२
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy