SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ नेयार्थस्य द्वौ भेदौ । यत्र च रूढिप्रयोजनान्यतरहेतु विनैव लक्षणा क्रियते तत्राद्यः, द्वितीयश्च लक्षणाप्रयोगाधिक्ये भवति । यथोदाहरणम् नवकुमुदवनश्रीहासकेलिप्रसङ्गादधिकरुचिरशेषा-मप्युषां जागरित्वा । अयमपरदिशोक मुञ्चति स्रस्तहस्तः । शिशयिषुरिव पाण्डुर्लानमात्मानमिन्दु : ॥१॥ अत्र 'हस्तः' शब्दः करं बोधयति, तेन च किरणाः लक्ष्यन्ते इति नेयार्थम् । अन्यच्च "हिमांशोऱ्यारादधिका, जागरे यामिकाः कराः।" अत्र चन्द्रकिरणेभ्योऽप्यधिका कामिनी- मुक्ताहारशोभासीदिति । अत्र लक्षणाया-पाधिक्यं स्पष्टमिति । ग्राम्यत्वम् अविदुषो वचनं ग्राम्यम् । अन्यच्च"स ग्राम्योऽर्थोरिरंसादिः, पामरैर्यत्र कथ्यते । वैदग्ध्यवत् किमबलं, हित्वैव वनितादिषु ॥" अत्र सहृदयवैमुख्यं दूषकताबीजं बोध्यते । अनित्योऽयं दोषः । साहित्यरत्नमञ्जूषा-१४६
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy