SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ पदं सहेत भ्रमरस्य पेलवं, शिरीषपुष्पं न पुनः पतत्रिणः ॥१॥" अत्र "पेलव" शब्दस्य अतिशयेन कोमलत्वं व्यञ्ज्यते । किन्तु पेलवः शब्दः अश्लीलस्याऽर्थे प्रसिद्धः । अन्यच्च-न श्लीलः अश्लीलः व्रीडा, जुगुप्सा, घृणा, अमङ्गलं अशुभमात्मास्वरूपं यस्य तेन । अर्थात् ब्रीडाजनकतया जुगुप्साजनकतया अभद्रतया चाऽश्लीलस्य भेदत्रयम् । "प्रियानाशे भवेत् वायुः, कथं आह्लादसाधनम्" । अत्र आह्लादसाधने 'उपस्थ' शब्दस्याश्लीलत्वं व्रीडाजनकं भवति । वायोः अपानवायुप्रतीत्या जुगुप्साजनकम् 'प्रियानाशे' अस्मिन् पदे अमङ्गलस्य प्रतीतिः । किन्तु शिवलिङ्गः, सुभगा, भगिनी, ब्रह्माण्डादिशब्दानां लोके नाश्लीलतया प्रतीतिः, तेषां प्रयोगे न दोषः । नेयार्थम् यत्र परम्परयाऽर्थो ज्ञायतेऽनुभूयते वा लक्षणाया लक्षणवृत्या अत्यन्तप्रसरादाधिक्याद्यय मनोहरत्वं नेयार्थत्वम् अथवा नेयः स्वकल्पनयान्यथा प्राप्यौऽर्थोऽभिधेयो यस्मिन् तत् पदं नेयार्थम् । अन्यच्च सति मुख्यार्थबाधे सति च रूढिप्रयोजनान्यतरहेतौ लक्षणावकाशो भवति यत्र नेयार्थम् । सोहित्यरत्नमञ्जूषा-१४८
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy