SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ रसव्यञ्जक-चमत्कृतार्थत्वं समाधित्वम् । अत्र रसपदं ध्वन्यलङ्कारादीनां उपलक्षणम् । येनायं भावो यद् येनार्थेन सहृदयानां चमत्कारः स्यात् सोऽर्थः समाधिः । यत्र च चेतनप्रवेशेन रोमाञ्चितगात्रादि चमत्कृत कृतार्थव्यञ्जकत्वमिति भावः । माधुर्यम् पुनरुक्तपदस्य रमणीयताजनकं द्रुतिजनकमिति । विचित्रता स्याद् तदा माधुर्यं भवति वा रमणीयता - संवलितविचित्रताजनकं पुनरुक्तपदत्वं माधुर्यं भवति, तेन माधुर्यं तु उक्तस्य कथितस्य चारुतावहं चित्तद्रवीभावजनक वैचित्र्यमिति । संक्षेपतः "चित्तद्रवीभावमयोह्लादो माधुर्यमुच्यते इति साहित्यदर्पणे उक्तम् । काव्यप्रकाशे तु द्रवीभावजनकाह्लादो माधुर्यमित्युक्तम्, शृङ्गारादिरसे चित्तद्रवीभावो माधुर्यमित्यर्थः । । इदं संयोगशृङ्गारे करुणे, विप्रलम्भे शान्ते च क्रमशोऽधिकं वर्त्तते । तस्योदाहरणं यथा वपस्य पश्य पश्यास्याश्चञ्चलं लोचनाञ्चलम् । अत्र पश्य, पश्य, विलोक्य पुनरुक्तपदस्य चारुता प्रतीतिर्भवति । साहित्यरत्नमञ्जुषा - १४०
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy