SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ ऽन्तर्गतं वस्तु बहिर्दृश्यते, तथैव कवेरभिमतार्थस्य यत्र स्वयमेव प्रकाशनं जायते तत्र प्रसादस्य भावेति । काव्यप्रकाशादिरसधर्मतावादिनां मते -- अर्थो रसः तदवभासकत्वं प्रसादत्वम् । शब्दार्थनिष्ठतः त्वौपचारिकी प्रसादस्य शब्दार्थयोः रसव्यञ्जकत्वात् । काव्यप्रकाशे प्रसादलक्षणं त्वेतत्- शुष्केन्धनाग्निवत् स्वच्छ जलवत्सह सैव यः । व्याप्नोत्यन्यत्प्रसादोऽसौ, सर्वत्र विहित स्थितिः ॥ अर्थात्-वस्त्रे यथा निर्मलजलं, शुष्केन्धने यथा वह्निः, तथा चेतसि योऽविलम्बेन प्रसरति स प्रसादः । अन्यच्चापि कथयति एवम् -- समर्पकत्वं काव्यस्य, यतः स प्रसादो गुरणो ज्ञ ेयः, सर्वरसान् प्रति । सर्वसाधारणत्रियः ॥ अर्थात् -- यदा विकासाख्यचित्तवृत्तिसमुत्पादकः प्रसादो वीर - रौद्रादिषु चित्तं व्याप्नोति तदा शुष्केन्धनाग्निवत्, यदा च शृङ्गार-करुरणादिषु चित्तं व्याप्नोति तदा विमलजलवत् सः ज्ञेयः । श्रवणमात्रेणार्थबोधजनकैर्वर्णरचना समासैरयं व्यज्यते । रसमात्रसाधारणोऽयं गुणः । साहित्यरत्नमञ्जूषा - १३७
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy