SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ केषाञ्चित् तु रतिशोकप्रशमेषु गुर्जर्यादिरागवृत्तिरिव कश्चिदेको धर्मोऽस्ति । स एव माधुर्यं तेन सामाजिकानां चित्तं द्रवीभवति । रत्यादीनां रसरूपतया परिरणामेन तस्य रसवृत्तित्वं इति वदन्ति । तन्न । तत्र तादृश धर्मसत्त्वे मानाभावात् । न च दुतिरुपकार्यान्वयानुपपत्या तत् कल्पनं इति वाच्यम् । गुर्जर्यादौ तु प्रत्यक्षसिद्ध एव तादृशधर्मः । अन्ये तु 'सुश्रवत्वमेव माधुर्यं काव्यधर्मः' संभोगापेक्षया करुणे तदपेक्षया विप्रलम्भे, तदपेक्षया शान्तेऽधिकम् । शृंगारे माधुर्यं यथा 1 लता कुञ्जं गुञ्जन् मदवदलिपुञ्जं चपलयन् समालिङ्गन्नङ्गः द्रुततरमनङ्गः प्रबलयन् । मरुन्मन्दं मन्दं दलितमरविन्दं तरलयन्, रजोवृन्दं विन्दन् किरति मकरन्दं दिशि दिशि ॥ १ ॥ लतापदं सुरभि पुष्पलता बोधकतया सार्थक्यम् । आवृत्तेर्माधुर्यव्यञ्जकत्वं यथा मुद्रितामिन्दुमालोकय, पद्मिनीं पश्य सुन्दरि । दन्तकान्तस्य विच्छेदे, मधुरोऽपि न रोचते ॥ सोहित्यरत्नमञ्जूषा - १३२
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy