SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ श्रीमद्भोजराजेन श्रीसरस्वतीकण्ठाभरण - नामकग्रन्थे तु चतुर्विंशति गुणाः प्रतिपादिताः दशगुणाः नाट्यशास्त्रोक्ताः, इतरे तु एते उदात्तता औजित्यम् प्रेयः सुशब्दता सौम्यम्, गाम्भीर्यं विस्तरः संक्षेपः संमितत्त्वं भाविकम्, गतिः रीतिः उक्तिः प्रौढिः । एते गुणाः शब्दार्थयो एव, काव्यप्रकाशादिषु रसधर्मागुणा उक्ताः । ते च माधुर्यम् ओजः प्रसाद इति त्रय एव स्वीकृताः, न तु पुनर्दश चतुर्विंशतिर्वा । एषां व्यञ्जिका रचना रचनापवादश्च दशितः कलिकालसर्वज्ञश्रीहेमचन्द्राचार्येगापि, एतदेव मतमधुना सक्रियते, प्रोक्तषु दशगुणेषु श्रीमद्भोजराजोक्तगुणानां अन्तर्भावः । ____ दशगुणेषु केषाञ्चिच्च माधुयौंजः प्रसादेष्वन्तर्भावः । केचिच्च दोषाभावरूपाः । यथा-श्लेषः समाधि प्रौदार्यम् प्रसादः ओजश्चैते, माधुर्यं माधुर्य, अर्थव्यक्तिः प्रसादे चान्तर्गताः ग्राम्यदोषाभावः कान्तिः श्रुतकटुदोषाभावः सुकुमारता समता च क्वापि दोषः, क्वापि चास्या उक्तो गुणान्तर्भावः । अर्थगुणेषु प्रोजः प्रसादमाधुर्य-सौकुमार्योदारता गुणाः अपुष्टार्थाधिकपदानवीकृता मङ्गलरूपाश्लीलग्राम्यदोषाभावरूपाः अर्थव्यक्तिः स्वभावोक्तिरलङ्कारे, कान्तिश्च साहित्यरत्नमञ्जूषा-१३०
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy