SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ ॥ अथ चतुर्थः परिच्छेदः ॥ "गुणदोषादयश्च के" इति जिज्ञासायां गुणदोषादयो निरूप्यन्ते । तत्र काव्यलक्षणे निर्दिष्टानां गुणानां स्वरूपं वस्तु उपक्रमते । गुण्यन्तः इति गुणाः । यथा शरीरे शौर्यादयो गुणाः आत्मधर्माः तथैव काव्ये आत्मभूतस्याङ्गिनो रसस्य धर्मा गुणाः, शब्दार्थयोः परम्परया वर्तन्त इति परिष्कृता पन्थाः । गुरणस्य सामान्यलक्षरणम् ये रसस्याङ्गिनो धर्माः, शौर्यादय इवात्मनः । उत्कर्ष हेतवस्ते स्यु- रचलास्थितयो गुरगाः ॥ रसवृत्तित्वे सत्युत्कर्षहेतुत्वं गुणत्वम्, नाट्यशास्त्रे दशगुणाः प्रतिपादिताः । श्लेषः प्रसादसमता समाधि-र्माधुर्यमोजः पदसौकुमार्यम् । अर्थस्य च व्यक्तिरुदारता च, कान्तिश्च काव्यार्थगुरणा दर्शते ॥ साहित्य - साहित्यरत्नमञ्जूषा - १२६
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy