SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ तृतीयपरिच्छेदस्य सारांशः * नव्ये भव्ये सुकाव्ये तु, चमत्कारश्च कीदृशः । सर्वमेतद् विनिश्चेतु, नूतनं चेष्टितं मया ॥१॥ काव्ये कश्च चमत्कारः ?, प्राह्लादकत्वमीरितः । आह्लादकस्य संसृष्टी, रम्यता हितकारिणी ॥ २॥ चमत्कारो द्विधा काव्ये, शब्दार्थाभ्यां प्रवर्तते । शब्दैरथैः सुसंयुक्त -श्चात्मकृत्यं विराजते ॥३॥ अर्थकृत्वश्चमत्कारो, वाच्य व्यङ्गयार्थ - भेदतः। द्वधात्वं पुनरायाति, कोमले काव्य-सागरे ॥४॥ सुकवेः सरसं कर्म, काव्यतां लभते सदा । कीदग रसस्वरूपं स्यात्, इति भावैश्च भावितः ॥५॥ समाहृत्य च सद्भावान्, विदुषां वर्णितान् परान् । अयं सुशीलसूरिर्वं, तत् स्वरूपं न्यरूपयत् ॥ ६ ॥ सरसा रुचिरा वाणी, चमत्कार-विधायिनी । तृतीयेऽस्मिन् परिच्छेदे, सौकर्याय सुरिणता ॥ ७ ॥ साहित्यरत्नमञ्जूषा-१२७ ।।
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy