SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ महिलासहस्सभरिए तुह , हिए सुहन ! सा अमाअन्ती । अणुदिरणमणण्णकम्मा , ___ अङ्ग तुणुझं वि तणुएइ ॥१॥ श्लोकेऽस्मिन् कविनिबद्धवक्तृप्रौढोक्तिसिद्धहेत्वलङ्कारेण तनोस्तनूकरणेऽपि सा तव हृदये न वर्तते इति विशेषोक्तिरलङ्कारः प्रतीयते । ॥ इति अर्थशकत्युत्थस्य द्वादशप्रकाराः प्रतिपादिताः ।। शब्दार्थोभयशक्त्युत्थस्तु एक एव कथितः । यथाअतन्द्रचन्द्राभरणा, समुद्दीपितमन्मथा । तारकातरला श्यामा, सानन्दं न करोति कम् ॥ १॥ अत्र चन्द्र त्यादिशब्दा परिवृत्यसहिष्णव इति शब्दमालंब्य, अतन्द्राभरणेत्यादिशब्दा अनिद्रभूषणादिपर्यायान्तरैरपि तदर्थप्रतीतेः परिवृत्तिसहेत्यर्थमाश्रित्य, श्यामा रात्रिरिव श्यामा कामिनीति उपमा व्यङ्गय इत्युभयशक्त्युत्थः । एवं ध्वनिकाव्यस्यापि अष्टादशभेदाः सन्ति । एते सर्वेऽपि भेदाः पद-पदांशवाक्य-प्रबन्धप्रमुखगतत्वेन गणनातीता भवन्ति । विशेषार्थिना तन्निरूपणं साहित्याकरग्रन्थे द्रष्टव्यमिति । साहित्यरत्नमञ्जूषा-१२६
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy