SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ (३) नृपविषया रतिः, यथात्वद् वाजिराजिनिधूत धूलीपटलपङ्किलाम् । न धत्ते शिरसा गङ्गां , भूरिभाभिया हरः ॥ १ ॥ अत्र राजविषया रतिः ज्ञेया । किञ्चिदुबुद्धस्थायिभावः, यथाहरस्तु किञ्चित् परिवृत्तधैर्य श्चन्द्रोदयारम्भ इवाम्बुराशिः । उमामुखे बिम्बफलाधरोष्ठ, व्यापारयामास विलोचनानि ॥ १ ॥ अस्मिन् श्लोके किञ्चिद् उद्बुद्धस्थायिभावो वर्त्तते । अत्र प्रसङ्गवशात् किञ्चिद् रसाभासस्वरूपं भावाभासस्वरूपं च कथ्यते । यत्र रसाभावादीनां अनौचित्यप्रवृत्तिर्भवति तत्र रसाभासः, भावाभासश्च प्रवर्तते । यथा रसाभासःजघनस्थलनद्धपत्रवल्ली गिरिमल्लीकुसुमानि काऽपि भिल्ली । अवचित्य गिरौ पुरो निषण्णा , स्वकचानुत्कचयाञ्चकार भर्ना ॥१॥ साहित्यरत्नमञ्जूषा-११५ ।
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy