SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ (8) शान्तः१ शमस्थायिभावः, संसारानित्यता परमात्मस्वरूपं वाऽऽलम्बनम्, पुण्यतीर्थसाधुसङ्गनिर्मलारण्यादि उद्दीपनम्, रोमाञ्चाद्यनुभावः, निर्वेदहर्षस्मरणादयो व्यभिचारिणः, यत्र स शान्तो रसः। यथाप्रशमरसनिमग्नं दृष्टियुग्मं प्रसन्नं , वदनकमलमङ्कः कामिनीसङ्गशून्यम् । करयुगमपियत्ते शस्त्रसम्बन्धवन्धं , तदसि जगति देव वीतरागस्त्वमेवम् ॥१॥ काव्यशास्त्र यदुक्त "व्यङ्गयार्थः भावरूपः।" तत्र को भावः ? कथ्यतेऽत्र__यत्र संचारिभावस्य प्राधान्यं, देव-गुरु-नृपविषया च रतिः, किञ्चिद् उद्बुद्धमात्र स्थायिभावः, तत्र रसः पुष्टितामलभमानो भावः इत्यभिधीयते । स च रसस्वरूप एव । प्रोक्त यत्न भावहीनोऽस्ति रसो, न भावो रसजितः ॥ परस्परकृता सिद्धिः अनयोः रसभावयोः ॥१॥ १. धवलवर्णः, नारायणदेवतः, शृङ्गारहास्यरौद्रवीरभयानकैः सह विरोधी । साहित्यरत्नमञ्जूषा-११२
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy