SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ (३) करुणः १ स्वेष्टनाशादनिष्टाप्तेः, करुणाख्यो रसो भवेत् । धीरैः कपोतवर्णोऽयं, कथितो यमदैवतः ॥ शोकोऽत्र स्थायिभावः स्यात्, शौच्यमालम्बनं मतम् । तस्य दाहादिकावस्था, अनुभावा दैवनिन्दा, वैवर्ण्याच्छ्वासिनः श्वासस्तम्भप्रलपनानि च ॥ निर्वेदमोहाऽपस्मार, व्याधि ग्लानि स्मृति क्षमाः । विषाद जडतोन्मादः, चिन्ताद्या व्यभिचारिणः || भवेदुद्दीपनं पुनः ॥ भूपातनंदितादयः । स्वेष्टनाशादनिष्टसम्बन्धात् शोकस्थायिभावका, शोच्य - जनावलम्बनः, तदीयदाहाद्युद्दीपनः, दैवनिन्दाद्यनुभावकः, विषादजडतादिव्यभिचारिभावकः करुणरसः । यथोदाहरणम् विपिने क्व जटानिबन्धनं तव चेदं क्व मनोहरं वपुः । अनयोर्घटनाविधेः स्फुटं ननु खड्गेन शिरीषकर्तनम् ॥ १ ॥ अत्र हि श्रीरामवनवासजनितशोकार्त्तस्य दशरथस्य दैवनिन्दा एवं बन्धुवियोगविभवनाशादावप्युदाहार्यमिति । १. कपोतवर्णः, यमदैवतः, हास्य शृङ्गाराभ्यां विरोधोऽस्य । साहित्यरत्नमञ्जूषा - १०६
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy