SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ यथातां जानीथाः परिमितकथां जीवितं मे द्वितीयं । दूरीभूते मयि सहचरे चक्रवाकीमिवैकाम् ॥ गाढोत्कण्ठां गुरुषु दिवसेष्वेषु गच्छत्सु बाला । जातां मन्ये शिशिरमथितां पद्मिनी वान्यरूपाम् ॥१॥ (२) हास्यः१ विकृतानवाक्चेष्टं, यमालोक्य हसेज्जनः । तत्रालम्बनं प्राहुः, तच्चेष्टोद्दीपनं स्मृतम् ॥ अनुभावोऽसि संकोचः, वचनस्मेरतादयः । निद्रालस्यवहित्थाद्या, अत्र स्युर्व्यभिचारिणः ।। हासस्थायिभावकः, विकृताकारवाक्चेष्टावज्जनालम्बनकः, तदीयचेष्टोद्दीपनकः, अक्षिसंकोचनवदनविकाशानुभावकः, निद्रालस्यादिसंचारिभावकश्चेति हास्यरसः । हास्यस्य षड्भेदाः___ज्येष्ठानां स्मितहसिते, मध्यमानां विहसितावहसिते, नीचानां तु अपहसितं तथा अतिहसितं भवति । अतः १. श्वेतवर्णः, प्रमथ (शिवगणविशेष) देवतः, करुणभयानकाभ्यां विरोषोऽस्य । साहित्यरत्नमञ्जूषा-१०४
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy