SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ उदाहरणानि प्रदर्श्यन्ते । तत्र प्रथमस्य शृङ्गाररसस्योदाहरणम् (१) शृङ्गारः१ रतिस्थायिभावकः, रागवन्नायक - नायिकालम्बनकः, चन्द्र-चन्दनरोलम्बाद्युद्दीपनकः, भ्रू विक्षेप-कटाक्षाद्यनुभावकः, शृङ्गार नामा रसः। स च सम्भोग-विप्रलम्भभेदेन द्विविधो भवति । __यत्र दर्शन-स्पर्श-रोमाञ्चादि-विलासिनौ परस्परमनुरागिणौ विदधतः, तत्र 'सम्भोगशृङ्गारः' भवति । यथाशून्यं वासगृहं विलोक्य शयनादुत्थाय किञ्चिच्छनैनिद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम् ॥ विश्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थलों । लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता ॥१॥ अत्रोक्तस्वरूप:-पतिः उक्तस्वरूपा बाला च आलम्बनविभावौ शून्यं वासगृहं उद्दीपनविभावः चुम्बनं अनुभावः १. श्यामवर्णकः, विष्णु देवतः, करुण-वीर-बीमत्स-रोद्र-भयानकरसः सह विरोधी एव। साहित्यरत्नमञ्जूषा-१०२
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy