SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ ॐ रसभेदाः * शृङ्गारादिभेदात् नवधा रसभेदाः । तथाहिशृंगारहास्यकरुणा-रौद्रवीरभयानकाः । बीभत्साद्भुतसंज्ञौ चेत्यष्टौ काव्ये रसा स्मृताः ॥१॥ नवमोऽपि शान्तरसः स्वीकृतः । विस्तरेणायं भावः नायिकादिभिः पालम्बनकारणैः चन्द्रचन्द्रिकादिभिः उद्दीपनकारणः अनुरागजन्यहावभावादिभिः कायैः चिन्तादिभिश्च सहकारिभिः स्थायीभावभूतस्यानुरागविशेषरतेः परिशीलमवरोधसामाजिकानां अन्तःकरणे वासनारूपतया स्थितः लोकोत्तर-चमत्कारी रसो जायते । यद्यप्यत्र शब्दश्रवणसमानान्तरमेवार्थबोधः । ततो विभावादिप्रतीतिः अनन्तरं सहृदयैः भावनया विभावादिसंवलितचिदानन्दात्मकः आस्वाद्यमानो रत्यादिः स्थिरोभावः रसतामाप्नोतीति । क्रमो नूनमस्ति तथापि कार्याणामियत्तां कमलशतपत्रभेदवत् सहसा सम्पन्नतया नैव क्रमः प्रतीतिरनुभूयते । प्रतिरसं विभावादयो विद्यन्ते यथा शृङ्गाररसस्य स्थायिभावादयः। साहित्यरत्नमञ्जूषा -१००
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy