SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ प्रथमश्च रसादि रस-रसाभास भाव-भावाभास-भावोदयभावप्रशम-भावसन्धि, भावशबलता। तत्र रसस्योदाहरणम् किमपि मन्दं मन्दं मन्दमासत्तियोगादविरलितकपोलं जल्पतोरक्रमेण । आशिथिलपरिरम्भव्यापृतैकैकदोष्णोरविदित गतयामा रात्रिरेव व्यरंसीत् । रसे कोऽपि विलक्षणः सहृदयानां लोकोत्तरचमत्कारजनकः सम्भोगशृङ्गाररसास्वादः वाच्यप्रतीत्य व्यवहितोत्तरकालावच्छेदे नैव सम्पद्यते। अत एवोत्पलशतपत्रव्यक्तिभेदवत् तदुभयो प्रतीत्योः क्रमस्य सहृदयैरलक्ष्यमाणतया असंलक्ष्यक्रमव्यङ्गो नाम रसध्वनिरिहावसेयः । चमत्कारो नाम-आह्लादकत्वं, स शब्दगतः अर्थगतश्चेति द्विविधः। शब्दश्रवणमात्रेण विलक्षण-चित्तालादो भवेत्, स शब्दगतः । यथा शारदा शारदाम्भोज - वदना वदनाम्बुजे । सर्वदा सर्वदाऽस्माकं सन्निधि सन्निधि क्रियाम् ॥ १॥ अर्थगतोऽपि द्विविधः। वाच्यार्थगतः, व्यङ्गयार्थगतश्चेति । यत्र च व्यङ्गयार्थापेक्षया वाच्यार्थस्यातिशायित्वं, तत्र वाच्यार्थगतः । यथा साहित्यरत्नमञ्जूषा-६३
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy