SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ तस्योदाहरणं यथाहेमरि वशानोंऽशुकं शक्रनीलासिते वर्मणि स्पष्ट दिव्यानुलेपाङ्किते । तार हारांशुवक्षो नभश्चित्रमालाञ्चितो भव्यभूषोज्ज्वलाङ्गः समंसीरिणा ॥ अञ्जनाभाम्बरेणेन्दुकुन्दाभदेहेन लीला परिहास हासोमिकौतूहलैः । कंसरङ्गाद्रिगः पातु नश्चक्रपाणिर्गति । क्रीडया मत्तमातङ्गलीलाकरः ॥१॥ अनङ्गशेखरदण्डकस्य लक्षणमाह___"यत्र दृश्यते गुरो परो लघुः क्रमात् स उच्यते बुधैरनङ्गशेखरदण्डकः ।" यस्मिन् दण्डके क्रमाद् गुरोः परो लघुवर्णो दृश्यते सः बुधैः छन्दोविद्भिः अनङ्गशेखरनाम दण्डकः कथ्यते । तस्योदाहरणं यथामूनि चारुचम्पकस्रजा सलीलवेष्टनं लसल्लवङ्गचारुचन्द्रिकाकचेषु । कर्णयोरशोकपुष्पमञ्जरीवतंसको गले च कान्तकेसरोपकलप्तदाम ॥ फुल्लनागकेसरादिपुष्परेणुरूषणं तनौ विचित्रं इत्युपात्त वेश एष । केशवः पुनातु नः सुपुष्पभूषितः सुमूत्ति मानिवागतो मधुविहर्तुमत्र ॥१॥ साहित्यरत्नमञ्जूषा-८४
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy