SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ कुसुमस्तबकदण्डकस्य लक्षणमाह "सगरणः सकलः खलु यत्र भवेत् तमिह प्रवदन्ति बुधाः कुसुमस्तबकम् ।” यत्र यस्मिन् वृत्तौ छन्दसि वा सकलः समस्तसगणः एव भवेत् अर्थात् प्रतिपादे नव सगणा भवेयुः यस्य च सप्तविंशति-अक्षरधरितपादस्य दण्डकस्य सर्वेऽपि पादाः सगणेनैव रचितः स्यात् तं कुसुमस्तबकं नाम दण्डकं प्रवदन्ति । तस्योदाहरणं यथाविमलेश्चरितैर्भरितेरखिलविभवः प्रभुतान्वितया सततं , सफलैः सजलैः सुगुणैः सकला वसुधा निजदेशगता सुविभातितराम् । सुमतिः कुमति परिशोधनके निरता विरता न कदापि भवेदमिता, मनसा वचसा क्रियया सुलभा सुगतिः कुति जयतात् सहजैरमला ॥१॥ मत्तमातङ्गलीलाकरदण्डकस्य लक्षणमाह “यत्र रेफः परं स्वेच्छया गुम्फितः स स्मृतो दण्डको मत्तमातङ्गलीलाकरः।" यत्र दण्डके प्रतिचरणं स्वेच्छया परं केवलं रेफः रगणः गुम्फितः निबद्धः स्यात् स मत्तमातङ्गलीलाकरो नाम दण्डकः भवेत् । साहित्यरत्नमञ्जूषा-८३
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy