SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ २ त्रयो विशत्यक्षरवृत्तं 'प्रश्वललितं' कथ्यते-- तल्लक्षणमाह "विकृतौ न्जौ म्जौ भ्जौ म्जभलगास्तदश्वललितहरार्कयति तत् ।" यत्र प्रतिपादं क्रमशो नगण-जगणभगण-जगण-भगण-जगण-भगणानां वर्णास्ततो लघुरेको गुरुश्चैकस्तस्याश्वललितं नाम प्रख्यातं भवति । दशभिरक्षरैर्यतिश्च कर्त्तव्या। अर्थात्-यदिह शास्त्रे नगण-जगणौ भगण-जगण-भगण-जगण-भगण-लघुगुरवश्च स्युस्तत् अश्वललितं नाम छन्दः। किंभूतं तत् हरार्कयति हरैरेकादशभिरकै द्वादशभिर्यतिविरामो यत्र तत् । तस्योदाहरणं यथातिरय महान्धकूपमसमान्धकार - भरदुर्विलोकमतुलं , निपतित - गाढमोहपटलान्धजन्तुविविधप्रलापतुमुलम् । प्रवचनचक्षुषे क्षत इमं चिराय तनुभृत् तथापि वलवचपलतरेन्द्रियाश्वललितविकृष्ट इह तत् क्षणान् निवजति ॥ [अस्मिन् वृत्ते दशमो भगणोऽस्माभिय॑स्तः। अत्र सप्तमभगणस्थानेऽपि यतिर्भवति । तत् स्थाने केचिज्जगणमिच्छन्तीति ज्ञेयम् ।] साहित्यरत्नमञ्जूषा-७३ ..
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy