SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ मत्कृतिरपि यथानानाविद्याधिदेवाचलविमलधिया मुक्तिसौभाग्यभाजां । श्रीमल्लावण्यसूरीश्वरप्रगुरुसतां दक्षनाम्नो गुरोश्च ॥ श्रासाद्यानुग्रहं चाष्टकमिदममलं श्रीसुशीलेन दृब्धं । नित्यं भव्यात्मनां वं श्रुतिपठनकृतां मोददानाय भूयात् ॥ [ इति श्रीधातु रत्नाकरग्रन्थस्य पञ्चमविभागादुद्धृतमिदम् । ] * अथ विषमच्छन्दांसि (१) 'पुष्पिताग्रा' वृत्तं कथ्यते । तल्लक्षणमाह "अयुजि नयुगरेफतो यकारो, युजि तु नजौ जरगाश्च पुष्पिताग्रा ।" विषमे नयुगरेफतो यकाराः युजि समे नज-न-र- गुरवस्तद् 'पुष्पिताग्रा' नाम । इयमप्यौपच्छन्दसि कान्तभूतैव विशेषसंज्ञार्थमिहोक्ता । अत्र च विषमे प्रथमे तृतीये पादे नगरणद्वयं रगण यगरणौ च युजि तु अर्थात् द्वितीये चतुर्थे पादे तु नगरण - जगरण - जगरण - रगणाः गुरुवर्णश्च स्यात्, सा 'पुष्पिताग्रा' भवति । तस्योदाहरणं यथा कमलिनि ! मलिनी करोषि चेतः । किमिति बकैरवहेलितानभिज्ञैः ॥ परिरणतमकरन्दमार्मिकास्ते । जगति जयन्ति चिरायुषो मिलिन्दाः ॥ [ इति श्रीपण्डितजगन्नाथविरचित - भामिनीविलासग्रन्थे प्रोक्तमिदम् । ] साहित्यरत्नमञ्जूषा - ६७
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy