SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ तथा च अन्यच्चएकत्र पादे चरणद्वये वा , पादत्रये वान्यतरः स्थितश्चेत् । तयोरिहान्यत्र तदोहनीया चतुर्दशोक्ता उपजातिभेदाः ॥ एवं भेदेषु उदाहरणानि विवेचनीयानि । इत्यं किलान्यास्यपि मिश्रितासु । स्मरन्ति जातिष्विदमेव नाम ॥ केषाञ्चित्-इन्द्रवज्रोपेन्द्रवज्रयोर्मेलनेन इन्द्रवंशावंशस्थयोमेलनेन यथा उपजातयः सम्मधन्ते तथा इन्द्रवज्रावंशस्थयोः इव अन्यान्यविषमाक्षरजातिद्वयमेलनेन अपि उपजातयः भवन्तीति वदन्ति । 'शालिनी' छन्दः कथ्यते । तल्लक्षणमाह 'शालिन्युक्ता, म्तौ तगौ गोऽब्धिलोकः ।' यस्यां मगणः तगणद्वयं गुरुद्वयं स्यात् चतुर्भिः सप्तभिश्च विरामः 'शालिनी' छन्दः । साहित्यरत्नमञ्जूषा-४०
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy