SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ शुभप्रियश्वेतमरालवाहिनी , मृणालतन्तूपमवस्त्रशालिनी । तुषारकुन्देन्दुसमानशोभना , स्तुत्या सदा तुष्यतु भव्यभारती ॥ १ ॥ • कृच्छतरबोध्यः तृतीयः-सोऽपि अतिप्रयत्नेन पदपरावादिना चमत्कृतिहीनकाव्यकारकः । यथा भोजप्रबन्धे कथितमाह-श्रीभोजराजप्रार्थनाकृते चतुर्भिद्विजैरतिप्रयासेन पदद्वयं विरचितम् । तच्चैवम् भोजनं देहि राजेन्द्र ! , घृत-सूपसमन्वितम् । इति श्लोकार्द्ध कविकालिदासेन पूरितम् । यथा माहिषं च शरच्चन्द्रिकाधवलं दधि । पदपरावृत्याऽपि यथा आदिमं पृथिवीनाथ-मादिमं निष्परिग्रहम् । आदिमं तीर्थनाथं च, ऋषभः स्वामिनं स्तुमः ॥ ३ ॥ [इति सकलार्हत्चैत्यवन्दने प्रोक्तम् ] प्रथमं पृथिवीपालं, प्रथमं निरवग्रहम् । प्रथमं तीर्थनाथं वै, श्रीऋषभं जिनं नुमः ॥१॥ चमत्कृतिहीनं यथा निशायां शोभते चन्द्रः, तारागरणादि संवृतः । विनाशन तिमिरौघं वै, वितन्वन् चन्द्ररश्मिकम् ॥१॥ कवित्वसंप्राप्तिरिति विषये अल्पप्रयत्नबोध्यः, कृच्छबोध्यः, कृच्छतरबोध्यश्चेति त्रिविधोऽधिकारी ज्ञातव्याः । साहित्यरत्नमञ्जूषा-१३
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy