SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ शान्तिनाथचरित्रे रराज राजन्यसमाजमध्यगः स विश्वसेनः खरसेन तत्पुरे ॥ ३८ ॥ द्विधा क्षमापस्य चिरस्य तापतो निजप्रतापैर्वलयं ज्वलद्भुवः । स्वतः परित्यज्य गताः कचिदने वनेचराभाः क्षितिपा द्विधाऽरयः ||३९|| ss विश्वसेनस्य विनश्यदापदः पदं सुराज्यस्य सुरासुरार्चितम् । प्रदक्षिणीकृत्य जयायै - सृष्टया यशः श्रियाऽलम्भि यतो जगत्त्रयम् ॥४०॥ क कौशिकस्य प्रभुतासुराद्भिया ऽनिमेषभाजोऽक्षिसहस्रसंगमे । अतोऽत्र राजाऽनुपमस्त्रिविष्टपे रराज नीराजनयासराजघः ॥ ४१ ॥ १२ १ क्षमा = भूः, पक्षे तितिक्षा । २ क्षितिं भुवं क्षयं च पान्ति रक्षन्ति । ३ श्रायः = लाभः । ४ नितरां राजनये श्रास्ते इति नीराजनयासः, स चासौ राजघश्च यद्वा, निर्गतो राजनयोऽत्र तम् श्रस्यति क्षिपति स तथा ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy